|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.231. अध्यायः 231
Mahabharata - Adi Parva - Chapter Topics
सुन्दोपसुन्दकृतोपद्रवं निवेद्य देवादिभिः प्रार्थितेन ब्रह्मणा आज्ञप्तेन विश्वकर्मणा तिलोत्तमासृष्टिः॥ 1 ॥
तिलोत्तमया ब्रह्माज्ञास्वीकारः॥ 2 ॥
Mahabharata - Adi Parva - Chapter Text
नारद उवाच। 1-231-0x(1259)(10034)
ततो देवर्षयः सर्वे सिद्धाश्च परमर्षयः।
जग्मुस्तदा परमार्तिं दृष्ट्वा तत्कदनं महत्॥ 1-231-1(10035)
तेऽभिजग्मुर्जितक्रोधा जितात्मानो जितेन्द्रियाः।
पितामहस्य भनं जगतः कृपया तदा॥ 1-231-2(10036)
ततो ददृशुरासीनं सह देवैः पितामहम्।
सिद्धैर्ब्रह्मर्षिभिश्चैव समन्तात्परिवारितम्॥ 1-231-3(10037)
तत्र देवो महादेवस्तत्राग्निर्वायुना सह।
चन्द्रादित्यौ च शक्रश्च पारमेष्ठ्यास्तथर्षयः॥ 1-231-4(10038)
वैखानसा वालखिल्या वानप्रस्था मरीचिपाः।
अजाश्चैवाविमूढाश्च तेजोगर्भास्तपस्विनः॥ 1-231-5(10039)
ऋषयः सर्व एवैते पितामहमुपागमन्।
ततोऽभिगम्य ते दीनाः सर्व एव महर्षयः॥ 1-231-6(10040)
सुन्दोपसुन्दयौः कर्म सर्वमेव शशंसिरे।
यथा हृतं यथा चैव कृतं येन क्रमेण च॥ 1-231-7(10041)
न्यवेदयंस्ततः सर्वमखिलेन पितामहे।
ततो देवगणाः सर्वे ते चैव परमर्षयः॥ 1-231-8(10042)
तमेवार्थं पुरस्कृत्य पितामहमचोदयन्।
ततः पितामहः श्रुत्वा सर्वेषां तद्वचस्तदा॥ 1-231-9(10043)
मुहूर्तमिव संचिन्त्य कर्तव्यस्य च निश्चयम्।
तयोर्वधं समुद्दिश्य विश्वकर्माणमाह्वयत्॥ 1-231-10(10044)
दृष्ट्वा च विश्वकर्माणं व्यादिदेश पितामहः।
सृज्यतां प्रार्थनीयैका प्रमदेति महातपाः॥ 1-231-11(10045)
पितामहं नमस्कृत्य तद्वाक्यमभिनन्द्य च।
निर्ममे योषितं दिव्यां चिन्तयित्वा पुनःपुनः॥ 1-231-12(10046)
त्रिषु लोकेषु यत्किंचिद्भूतं स्थावरजङ्गमम्।
समानयद्दर्शनीयं तत्तदत्र स विश्ववित्॥ 1-231-13(10047)
कोटिशश्चैव रत्नानि तस्या गात्रे न्यवेशत्।
तां रत्नसङ्घातमयीमसृजद्देवरूपिणीम्॥ 1-231-14(10048)
सा प्रयत्नेन महता निर्मिता विश्वकर्मणा।
त्रिषु लोकेषु नारीणां रूपेणाप्रतिमाभवत्॥ 1-231-15(10049)
न तस्याः सूक्ष्ममप्यस्ति यद्गात्रे रूपसंपदा।
नियुक्ता यत्र वा दृष्टिर्न सज्जति निरीक्षताम्॥ 1-231-16(10050)
सा विग्रहवतीव श्रीः कामरूपा वपुष्मती।
`पितामहमुपातिष्ठत्किं करोमीति चाब्रवीत्॥ 1-231-17(10051)
प्रीतो भूत्वा स दृष्ट्वैव प्रीत्या चास्यै वरं ददौ।
कान्तत्वं सर्वभूतानां साश्रियानुत्तमं वपुः॥ 1-231-18(10052)
सा तेन वरदानेन कर्तुश्च क्रियया तदा।'
जहार सर्वभूतानां चक्षूंषि च मनांसि च॥ 1-231-19(10053)
तिलंतिलं समानीय रत्नानां यद्विनिर्मिता।
तिलोत्तमेति तत्तस्या नाम चक्रे पितामहः॥ 1-231-20(10054)
ब्रह्माणं सा नमस्कृत्य प्राञ्जलिर्वाक्यमब्रवीत्।
किं कार्यं मयि भूतेश येनास्म्यद्येह निर्मिता॥ 1-231-21(10055)
पितामह उवाच। 1-231-22x(1260)
गच्छ सुन्दोपसुन्दाभ्यामसुराभ्यां तिलोत्तमे।
प्रार्थनीयेन रूपेण कुरु भद्रे प्रलोभनम्॥ 1-231-22(10056)
त्वत्कृते दर्शादेव रूपसंपत्कृतेन वै।
विरोधः स्याद्यथा ताभ्यामन्योन्येन तथा कुरु॥ 1-231-23(10057)
नारद उवाच। 1-231-24x(1261)
सा तथेति प्रतिज्ञाय नमस्कृत्य पितामहम्।
चकार मण्डलं तत्र विबुधानां प्रदक्षिणम्॥ 1-231-24(10058)
प्राङ्मुखो भगवानास्ते दक्षिणेन महेश्वरः।
देवाश्चैवोत्तरेणासन्सर्वतस्त्वृषयोऽभवन्॥ 1-231-25(10059)
कुर्वन्त्यां तु तदा तत्र मण्डलं तत्प्रदक्षिणम्।
इन्द्रः स्थाणुश्च भगवान्धैर्येण तु परिच्युतौ॥ 1-231-26(10060)
द्रष्टुकामस्य चात्यर्थं गतायां पार्श्वतस्तथा।
अन्यदञ्चितपद्माक्षं दक्षिणं निःसृतं मुखम्॥ 1-231-27(10061)
पृष्ठतः परिवर्तन्त्यां पश्चिमं निःसृतं मुखम्।
गतायां चोत्तरं पार्श्वमुत्तरं निःसृतं मुखम्॥ 1-231-28(10062)
महेन्द्रस्यापि नेत्राणां पृष्ठतः पार्श्वतोग्रतः।
रक्तान्तानां विशालानां सहस्रं सर्वतोऽभवत्॥ 1-231-29(10063)
एवं चतुर्मुखः स्थाणुर्महादेवोऽभवत्पुरा।
तथा सहस्रनेत्रश्च बभूव बलसूदनः॥ 1-231-30(10064)
तथा देवनिकायानां महर्षीणां च सर्वशः।
मुखानि चाभ्यवर्तन्त येन याति तिलोत्तमा॥ 1-231-31(10065)
तस्या गात्रे निपतिता दृष्टिस्तेषां महात्मनाम्।
सर्वेषामेव भूयिष्ठमृते देवं पितामहम्॥ 1-231-32(10066)
गच्छन्त्यां तु तया सर्वे देवाश्च परमर्षयः।
कृतमित्येव तत्कार्यं मेनिरे रूपसंपदा॥ 1-231-33(10067)
तिलोत्तमायां तस्यां तु गतायां लोकभावनः।
`कृतं कार्यमिति श्रीमानब्रवीच्च पितामहः।'
सर्वान्विसर्जयामास देवानृषिगणांश्च तान्॥ ॥ 1-231-34(10068)
इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलाभपर्वणि एकत्रिंशदधिकद्विशततमोऽध्यायः॥ 231 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-231-23 ताभ्यां तयोः॥ 1-231-31 देवनिकायानां देवसङ्घानां येन देशेन मार्गेण सा याति तथा मुखान्यभ्यवर्तन्त॥ एकत्रिंशदधिकद्विशततमोऽध्यायः॥ 231 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|